|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.25. अध्यायः 025
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन पाण्डवानुपेत्य धर्मोपदेशपूर्वकमुत्तरदिग्गमनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-25-0x(1845)(16600)
तत्काननं प्राप्य नरेन्द्रपुत्राः
सुखोचिता वासमुपेत्य कृच्छ्रम्।
विजह्रुरिनद्रप्रतिमाः शिवेषु
सरस्वतीसालवनेषु तेषु ॥ 3-25-1(16601)
यतींश्च राजा स मुनींश्च सर्वां
स्तस्मिन्वने मूलफलैरुदग्रैः।
द्विजातिमुख्यानृषभः कुरूणां
संतर्पयामास महानुभावः ॥ 3-25-2(16602)
इष्टीश्च पित्र्याणि तथा क्रियाश्च
महावने वसतां पाण्डवानाम्।
पुरोहितस्तत्र समृद्धतेजा-
श्चकार धौम्यः पितृवन्नृपाणाम् ॥ 3-25-3(16603)
अपेत्य राष्ट्राद्वसतां तु तेषा-
मृषिः पुराणोऽतिथिराजगाम।
तमाश्रमं तीव्रसमृद्धतेजा
मार्कण्डेयः श्रीमतां पाण्डवानाम् ॥ 3-25-4(16604)
तमागतं ज्वलितहुताशनप्रभं
महामनाः कुरुवृषभो युधिष्ठिरः।
अपूजयत्सुरऋषिमानवार्चितं
महामुनिं ह्यनुपमसत्ववीर्यवान् ॥ 3-25-5(16605)
स सर्वविद्द्रौपदीं वीक्ष्य दीनां
युधिष्ठिरं भीमसेनार्जुनौ च।
संस्मृत्यरामं मनसा महात्मा
तपस्विमध्येऽस्मयतामितौजाः ॥ 3-25-6(16606)
तं धर्मराजो विमना इवाब्रवी-
त्सर्वे ह्रिया सन्ति तपस्विनोऽमी।
भवानिदं किं स्मयतीव हृष्ट-
स्तपस्विनां पश्यतां मामुदीक्ष्य ॥ 3-25-7(16607)
मार्कण्डेय उवाच। 3-25-8x(1846)
न तात हृष्यामि न च स्मयामि
प्रहर्षजो मां भजतेन दर्पः।
तवापदं त्वद्य समीक्ष्य रामं
सत्यव्रतं दाशरथिं स्मरामि ॥ 3-25-8(16608)
स चापि राजा सह लक्ष्मणेन
वने निवासं पितुरेव शासनात्।
धन्वी चरन्पार्थ मयैव दृष्टो
गिरे पुरा ऋष्यमूकस्य सानौ ॥ 3-25-9(16609)
सहस्रनेत्रप्रतिमो महात्मा
यमस्य नेता नमुचेश्च हन्ता।
पितुर्निदेशादनघः स्वधर्मं
चरन्वने दाशरथिश्चकार ॥ 3-25-10(16610)
स चापि शक्रस् समप्रभावो
महानुभावः समरेष्वजेयः।
विहाय भोगानचरद्वनेषु
नेशे बलस्येति चरेदधर्मम् ॥ 3-25-11(16611)
भापाश्च नाभागभगीरथादयो
महीमिमां सागरान्तां विजित्य।
सत्येन तेऽप्यजयस्तात लोका-
न्नेशे बलस्येति चरेदधर्मम् ॥ 3-25-12(16612)
अलर्कमाहुर्नवर्य सन्तं
सत्यव्रतं काशिकरूशराजम्।
विहाय राज्यानि वसूनि चैव
नेशे बलस्येति चरेदधर्मम् ॥ 3-25-13(16613)
धात्रा विधिर्यो विहितः पुराणै-
स्तं पूजयन्तो नरवर्य सन्तः।
सप्तर्षयः पार्थ दिवि प्रभान्ति
नेशे बलस्येति चरेदधर्मम् ॥ 3-25-14(16614)
महाबलान्पर्वतकूटमात्रा-
न्विषाणिनः पश्य गजान्नरेन्द्र।
स्थितान्निदेशे नरवर्य धातु-
र्नेशे बलस्येति चरेदधर्मम् ॥ 3-25-15(16615)
सर्वाणि भूतानि नरेन्द्र पश्य
तथा यथावद्विहितं विधात्रा।
स्वयोनितः कर्म सदाचरन्ति
नेसे बलस्येति चरेदधर्मम् ॥ 3-25-16(16616)
सत्येनं धर्मेण यथार्हवृत्त्या
ह्रिया तथा सर्वभूतान्यतीत्य।
यशश्च तेजश्च तवापि दीप्तं
विभावसोर्भास्करस्येव पार्त ॥ 3-25-17(16617)
यथाप्रतिज्ञं च महानुभाव
कृच्छ्रं वने वासमिमं निरूष्य।
ततः श्रियं तेजसा तेन दीप्ता-
मादास्वसे पार्थिव कौरेवभ्यः ॥ 3-25-18(16618)
वैशम्पायन उवाच। 3-25-19x(1847)
तमेवमुक्त्वा वचनं महर्षि-
स्तपस्विमध्ये सहितं सुहृद्धिः।
आमन्त्र्य धौम्यं सहितांश्च पार्थां-
स्ततः प्रतस्थे दिशमुत्तरां सः ॥ 3-25-19(16619)
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-25-1 महावनेष्वम्बुफलोचितेषु सरस्वतीति ख. पाठः। भागीरथीसालवनेष्विति क. पाठः ॥ 3-25-3 इष्टीः दर्शपौर्णमासाद्याः। पित्र्याणि पिण्डपितृयज्ञदर्सश्राद्धादीनि ॥ 3-25-4 राष्ट्रात् अपेत्य निर्गत्य वने वसताम् ॥ 3-25-6 अस्मयत विस्मितवान् ॥ 3-25-7 ह्रिया प्रागल्भ्यसंकोचेन ॥ 3-25-11 बलस्य बहुसामर्थ्यस्य ईशे प्रभवामीति हेतोरधर्मं न चरेत्। शक्तौ सत्यां धर्ममेवाचरेन्नत्वधर्ममित्यर्थः। नेशो बलस्येतीति क. पाठः ॥ 3-25-14 धात्रा ईशेन पुराणैर्वेदवाक्यैर्विहितो विधिरग्निहोत्रादिः ॥ 3-25-15 पशवोऽपि बलवानस्मीति दर्पेणाधर्मं न चरन्तीत्याह महाबलानिति। विषाणं दन्तः ॥ 3-25-17 विभा प्रभा सैव वसु वित्तं यस्य ॥ 3-25-18 आदास्यते ग्रहीष्यसि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|